...

अजस्रा


अखिलभारतीयसंस्कृतपरिषदाऽजस्रा नामधेयैषा पत्रिकाऽजस्रमेव प्रकाश्यते। परन्तु खल्विदानीं संस्कृतलेखानामथ च संस्कृतभाषयोत्कृष्टरचनानामसम्प्राप्त्या पत्रिकेयमजस्राऽजस्रत्वं क्वचिन्नाऽधिगतवती। एतदर्थं सम्पादको नितरां खेदमनुभवति। विदुषां लेखाभावात्संस्कृतभाषाऽथवा पत्रिकेयमवरुद्धा स्याच्चेत्तर्हिं न खलु कल्पत औचित्याय अतएवाऽभिनवच्छात्राणामुत्साहवर्धनायाऽत्र तेषां तासाञ्च लेखाः सम्मिलिताः सन्ति येषूत्कृष्टत्वमतितरां प्रायो न दृश्यते तथापि समाजेऽस्मिन्‌ संस्कृतमजस्रं प्रवहतीति तथ्यमजस्रेयं प्रदर्शयति।s अत्र प्रो० अशोककुमार कालियामहोदयानां कवितासडग्रह: कश्चित्‌ “कवितामकरन्द” मिति नाम सम्पादकेन समपादि। निश्चप्रचमेव विपश्चितां कृते खल्वेष सडग्रह: काव्यरसानन्दं प्रदास्यत इति विश्वसिति सम्पादक:। अथ च प्रो० ओम्‌प्रकाशपाण्डेयवर्याणां 'केलिसखी' नामधेया कविता सहृदयेषु किल केलिसखित्वमिवाचरिष्यतीति मनुतेऽयं सम्पादक:। अन्ये भावप्रबोधका उत शोधपरका लेखा अत्र प्रकाशिताः पाठकानां सुधियां छात्रच्छात्रीणां च कृते बोधप्रदाः प्रकृष्टशोधोद्वाहका: संस्कृतसरणिप्रदर्शकाश्च बोभूयिष्यन्त इति पत्रिकाया एषोऽङ्कः प्रकाशित:। नितरां सर्वसंशोधनं विहितं तथापि चेत्त्रुटयो दरीदृश्यन्ते तर्हि विद्वज्जनमतय: संशोध्य वाचयेयुरिति समेभ्यो भद्रं कामयमानोऽयं सम्पादको विरमतीति शम्‌।
धन्यवाद!
प्रो० ब्रिजेशकुमार शुक्लः
सम्पादक